સ્તોત્ર

शिवानन्द लहरी – श्रीमत् शंकराचार्य

।।श्रीः।।
।।शिवाभ्यां नमः।।
।।शिवानन्द-लहरी।।

कलाभ्यां चूडालंकृत-शशि कलाभ्यां निज तपः-
फलाभ्यां भक्तेषु प्रकटित-फलाभ्यां भवतु मे ।
शिवाभ्यामस्तोक-त्रिभुवन-शिवाभ्यां हृदि
पुनर्भवाभ्यामानन्द-स्फुरदनुभवाभ्यां नतिरियम् ।।1।।

गलन्ती शंभो त्वच्चरित-सरितः किल्बिषरजो
दलन्ती धीकुल्या-सरणिषु पतन्ती विजयताम् ।
दिशन्ती संसार-भ्रमण-परितापोपशमनं
वसन्ती मच्चेतो-हृदभुवि शिवानन्द-लहरी ।।2।।

त्रयी-वेद्यं हृद्यं त्रि-पुर-हरमाद्यं त्रि-नयनं
जटा-भारोदारं चलदुरग-हारं मृग धरम् ।
महा-देवं देवं मयि सदय-भावं पशुपतिं
चिदालंबं सांबं शिवमति-विडंबं हृदि भजे ।।3।।

सहस्रं वर्तन्ते जगति विबुधाः क्षुद्र-फलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृत-फलम् ।
हरि-ब्रह्मादीनामपि निकट-भाजां-असुलभं
चिरं याचे शंभो शिव तव पदांभोज-भजनम् ।।4।।

स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गान-फणितौ
पुराणे मन्त्रे वा स्तुति-नटन-हास्येष्वचतुरः।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित-कृपया पालय विभो ।।5।।

घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः
पटो वा तन्तुर्वा परिहरति किं घोर-शमनम् ।
वृथा कण्ठ-क्षोभं वहसि तरसा तर्क-वचसा
पदांभोजं शंभोर्भज परम-सौख्यं व्रज सुधीः ।।6।।

मनस्ते पादाब्जे निवसतु वचः स्तोत्र-फणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णन-विधौ ।
तव ध्याने बुद्धिर्नयन-युगलं मूर्ति-विभवे
पर-ग्रन्थान् कैर्वा परमशिव जाने परमतः ।।7।।

यथा बुद्धिश्शुक्तौ रजतमिति काचाश्मनि मणिः
जले पैष्टे क्षीरं भवति मृग-तृष्णासु सलिलम् ।
तथा देव-भ्रान्त्या भजति भवदन्यं जड जनो
महा-देवेशं त्वां मनसि च न मत्वा पशुपते ।।8।।

गभीरे कासारे विशति विजने घोर-विपिने
विशाले शैले च भ्रमति कुसुमार्थं जड-मतिः ।
समर्प्यैकं चेतस्सरसिजं उमा-नाथ भवते
सुखेनावस्थातुं जन इह न जानाति किमहो ।। 9 ।।

नरत्वं देवत्वं नग-वन-मृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि-जननम् ।
सदा त्वत्पादाब्ज-स्मरण-परमानन्द-लहरी
विहारासक्तं चेद् हृदयमिह किं तेन वपुषा ।।10।।

वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्-भवतु भव किं तेन भवति ।
यदीयं हृत्पद्मं यदि भवदधीनं पशु-पते
तदीयस्त्वं शंभो भवसि भव भारं च वहसि ।।11।।

गुहायां गेहे वा बहिरपि वने वाऽद्रि-शिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तःकरणमपि शंभो तव पदे
स्थितं चेद् योगोऽसौ स च परम-योगी स च सुखी ।।12।।

असारे संसारे निज-भजन-दूरे जडधिया
भ्रमन्तं मामन्धं परम-कृपया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपण रक्षाति-निपुणः-
त्वदन्यः को वा मे त्रि-जगति शरण्यः पशु-पते ।।13।।

प्रभुस्त्वं दीनानां खलु परम-बन्धुः पशु-पते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बन्धु-सरणिः ।।14।।

उपेक्षा नो चेत् किं न हरसि भवद्ध्यान-विमुखां
दुराशा-भूयिष्ठां विधि-लिपिमशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं न नखलु सुवृत्तं पशु-पते
कथं वा निर्यत्नं कर-नख-मुखेनैव लुलितम् ।।15।।

विरिञ्चिर्दीर्घायुर्भवतु भवता तत्पर-शिरश्चतुष्कं
संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशद-कृपया पाति शिव ते
कटाक्ष-व्यापारः स्वयमपि च दीनावन-परः ।।16।।

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्नेऽपि स्वामिन् भवदमल-पादाब्ज-युगलम् ।
कथं पश्येयं मां स्थगयति नमः-संभ्रम-जुषां
निलिंपानां श्रेणिर्निज-कनक-माणिक्य-मकुटैः ।।17।।

त्वमेको लोकानां परम-फलदो दिव्य-पदवीं
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरि-मुखाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणा-पूरित-दृशा ।।18।।

दुराशा-भूयिष्ठे दुरधिप-गृह-द्वार-घटके
दुरन्ते संसारे दुरित-निलये दुःख जनके ।
मदायासं किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्चेत् तव शिव कृतार्थाः खलु वयम् ।।19।।

सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ
नटत्याशा-शाखास्वटति झटिति स्वैरमभितः ।
कपालिन् भिक्षो मे हृदय-कपिमत्यन्त-चपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ।।20।।

धृति-स्तंभाधारं दृढ-गुण निबद्धां सगमनां
विचित्रां पद्माढ्यां प्रति-दिवस-सन्मार्ग-घटिताम् ।
स्मरारे मच्चेतः-स्फुट-पट-कुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैस्सेवित विभो ।।21।।

प्रलोभाद्यैः अर्थाहरण पर-तन्त्रो धनि-गृहे
प्रवेशोद्युक्तस्सन् भ्रमति बहुधा तस्कर-पते
इमं चेतश्चोरं कथमिह सहे शंकर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ।।22।।

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वम् दिशसि खलु तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षि-मृगतां-
अदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ।।23।।

कदा वा कैलासे कनक-मणि-सौधे सह-गणैः-
वसन् शंभोरग्रे स्फुट-घटित मूर्धांजलि-पुटः ।
विभो सांब स्वामिन् परमशिव पाहीति निगदन्
विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ।।24।।

स्तवैर्ब्रह्मादीनां जय-जय-वचोभिः नियमानां
गणानां केलीभिः मदकल-महोक्षस्य ककुदि ।
स्थितं नील-ग्रीवं त्रि-नयनं-उमाश्लिष्ट-वपुषं
कदा त्वां पश्येयं कर-धृत-मृगं खण्ड-परशुम् ।।25।।

कदा वा त्वां दृष्ट्वा गिरिश तव भव्यांघ्रि-युगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समाश्लिष्याघ्राय स्फुट-जलज-गन्धान् परिमलान्-
अलभ्यां ब्रह्माद्यैः मुदमनुभविष्यामि हृदये ।।26।।

करस्थे हेमाद्रौ गिरिश निकटस्थे धन-पतौ
गृहस्थे स्वर्भूजाऽमर-सुरभि-चिन्तामणि-गणे ।
शिरस्थे शीतांशौ चरण-युगलस्थे-अखिल शुभे
कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ।।27।।

सारूप्यं तव पूजने शिव महा-देवेति संकीर्तने
सामीप्यं शिव भक्ति-धुर्य-जनता-सांगत्य-संभाषणे ।
सालोक्यं च चराचरात्मक तनु-ध्याने भवानी-पते
सायुज्यं मम सिद्धिमत्र भवति स्वामिन् कृतार्थोस्म्यहम् ।।28।।

त्वत्पादांबुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शंभो लोक-गुरो मदीय-मनसः सौख्योपदेशं कुरु ।।29।।

वस्त्रोद्धूत विधौ सहस्र-करता पुष्पार्चने विष्णुता
गन्धे गन्ध-वहात्मताऽन्न-पचने बहिर्मुखाध्यक्षता ।
पात्रे कांचन-गर्भतास्ति मयि चेद् बालेन्दु चूडा-मणे
शुश्रूषां करवाणि ते पशु-पते स्वामिन् त्रि-लोकी-गुरो ।।30।।

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन् कुक्षि-गतान् चराचर-गणान् बाह्य-स्थितान् रक्षितुम् ।
सर्वामर्त्य-पलायनौषधं अति-ज्वाला-करं भी-करं
निक्षिप्तं गरलं गले न गलितं नोद्गीर्णमेव-त्वया ।।31।।

ज्वालोग्रस्सकलामराति-भयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः कर-तले किं पक्व जंबू-फलम् ।
जिह्वायां निहितश्च सिद्ध-घुटिका वा कण्ठ-देशे भृतः
किं ते नील-मणिर्विभूषणमयं शंभो महात्मन् वद ।।32।।

नालं वा सकृदेव देव भवतस्सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथा-श्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिर-देवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत् किं प्रार्थनीयं तदा ।।33।।

किं ब्रूमस्तव साहसं पशु-पते कस्यास्ति शंभो
भवद्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देव-गणं त्रसन्मुनि-गणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्द-सान्द्रो भवान् ।।34।।

योग-क्षेम-धुरंधरस्य सकलःश्रेयः प्रदोद्योगिनो
दृष्टादृष्ट-मतोपदेश-कृतिनो बाह्यान्तर-व्यापिनः ।
सर्वज्ञस्य दया-करस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमान्तरंग इति मे चित्ते स्मराम्यन्वहम् ।।35।।

भक्तो भक्ति-गुणावृते मुदमृता-पूर्णे प्रसन्ने मनः
कुम्भे सांब तवांघ्रि-पल्लव युगं संस्थाप्य संवित्फलम् ।
सत्त्वं मन्त्रमुदीरयन्निज शरीरागार शुद्धिं वहन्
पुण्याहं प्रकटी करोमि रुचिरं कल्याणमापादयन् ।।36।।

आम्नायांबुधिमादरेण सुमनस्संघाः-समुद्यन्मनो
मन्थानं दृढ भक्ति-रज्जु-सहितं कृत्वा मथित्वा ततः ।
सोमं कल्प-तरुं सुपर्व-सुरभिं चिन्ता-मणिं धीमतां
नित्यानन्द-सुधां निरन्तर-रमा-सौभाग्यमातन्वते ।।37।।

प्राक्पुण्याचल-मार्ग-दर्शित-सुधा-मूर्तिः प्रसन्नश्शिवः
सोमस्सद्-गुण-सेवितो मृग-धरः पूर्णास्तमो मोचकः ।
चेतः पुष्कर लक्षितो भवति चेदानन्द-पाथो निधिः
प्रागल्भ्येन विजृंभते सुमनसां वृत्तिस्तदा जायते ।।38।।

धर्मो मे चतुरंघ्रिकः सुचरितः पापं विनाशं गतं
काम-क्रोध-मदादयो विगलिताः कालाः सुखाविष्कृताः ।
ज्ञानानन्द-महौषधिः सुफलिता कैवल्य नाथे सदा
मान्ये मानस-पुण्डरीक-नगरे राजावतंसे स्थिते ।।39।।

धी-यन्त्रेण वचो-घटेन कविता-कुल्योपकुल्याक्रमैः-
आनीतैश्च सदाशिवस्य चरितांभोराशि-दिव्यामृतैः ।
हृत्केदार-युताश्च भक्ति-कलमाः साफल्यमातन्वते
दुर्भिक्षान्मम सेवकस्य भगवन् विश्वेश भीतिः कुतः ।।40।।

पापोत्पात-विमोचनाय रुचिरैश्वर्याय मृत्युं-जय
स्तोत्र-ध्यान-नति-प्रदिक्षिण-सपर्यालोकनाकर्णने ।
जिह्वा-चित्त-शिरोंघ्रि-हस्त-नयन-श्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ।।41।।

गांभीर्यं परिखा-पदं घन-धृतिः प्राकार उद्यद्गुण
स्तोमश्चाप्त बलं घनेन्द्रिय-चयो द्वाराणि देहे स्थितः ।
विद्या-वस्तु-समृद्धिरित्यखिल-सामग्री-समेते सदा
दुर्गाति-प्रिय-देव मामक-मनो-दुर्गे निवासं कुरु ।।42।।

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादि किरात मामक-मनः कान्तार-सीमान्तरे ।
वर्तन्ते बहुशो मृगा मद-जुषो मात्सर्य-मोहादयः
तान् हत्वा मृगया विनोद रुचिता-लाभं च संप्राप्स्यसि ।।43।।

कर-लग्न मृगः करीन्द्र-भंगो
घन शार्दूल-विखण्डनोऽस्त-जन्तुः ।
गिरिशो विशदाकृतिश्च चेतः
कुहरे पञ्च मुखोस्ति मे कुतो भीः ।।44।।

छन्दश्शाखि शिखान्वितैः द्विज-वरैः संसेविते शाश्वते
सौख्यापादिनि खेद-भेदिनि सुधा-सारैः फलैर्दीपिते ।
चेतः पक्षि शिखा-मणे त्यज वृथा संचारं अन्यैरलं
नित्यं शंकर-पाद-पद्म-युगली-नीडे विहारं कुरु ।।45।।

आकीर्णे नख-राजि-कान्ति-विभवैरुद्यत्-सुधा-वैभवैः
आधौतेपि च पद्म-राग-ललिते हंस-व्रजैराश्रिते ।
नित्यं भक्ति-वधू गणैश्च रहसि स्वेच्छा-विहारं कुरु
स्थित्वा मानस-राज-हंस गिरिजा नाथांघ्रि-सौधान्तरे ।।46।।

शंभु-ध्यान-वसन्त-संगिनि हृदारामे-अघ-जीर्णच्छदाः
स्रस्ता भक्ति लताच्छटा विलसिताः पुण्य-प्रवाल-श्रिताः ।
दीप्यन्ते गुण-कोरका जप-वचः पुष्पाणि सद्वासना
ज्ञानानन्द-सुधा-मरन्द-लहरी संवित्फलाभ्युन्नतिः ।।47।।

नित्यानन्द-रसालयं सुर-मुनि-स्वान्तांबुजाताश्रयं
स्वच्छं सद्द्विज-सेवितं कलुष-हृत् सद्वासनाविष्कृतम् ।
शंभु-ध्यान-सरोवरं व्रज मनो-हंसावतंस स्थिरं
किं क्षुद्राश्रय-पल्वल-भ्रमण-संजात-श्रमं प्राप्स्यसि ।।48।।

आनन्दामृत-पूरिता हर-पदांभोजालवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्ति लतिका शाखोपशाखान्विता ।
उच्छैर्मानस कायमान-पटलीमाक्रंय निष्कल्मषा
नित्याभीष्ट फल-प्रदा भवतु मे सत्कर्म संवर्धिता ।।49।।

सन्ध्यारंभ-विजृंभितं श्रुति-शिर स्थानान्तराधिष्ठितं
सप्रेम भ्रमराभिराममसकृत् सद्वासना शोभितम् ।
भोगीन्द्राभरणं समस्त सुमनःपूज्यं गुणाविष्कृतं
सेवे श्रीगिरि मल्लिकार्जुन महा-लिंगं शिवालिंगितम् ।।50।।

भृंगीच्छा-नटनोत्कटः करि-मद-ग्राही स्फुरन्-
माधवाह्लादो नाद-युतो महासित-वपुः पंचेषुणा चादृतः ।
सत्पक्षस्सुमनो-वनेषु स पुनः साक्षान्मदीये मनो
राजीवे भ्रमराधिपो विहरतां श्रीशैल-वासी विभुः ।।51।।

कारुण्यामृत-वर्षिणं घन-विपद्-ग्रीष्मच्छिदा-कर्मठं
विद्या-सस्य-फलोदयाय सुमनस्संसेव्यं इच्छाकृतिम् ।
नृत्यद्भक्त-मयूरं अद्रि-निलयं चंचज्जटा मण्डलं
शंभो वांछति नील-कन्धर सदा त्वां मे मनश्चातकः ।।52।।

आकाशेन शिखी समस्त फणिनां नेत्रा कलापी
नताऽनुग्राहि प्रणवोपदेश निनदैः केकीति यो गीयते
श्यामां शैल समुद्भवां घन-रुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहार-रसिकं तं नील-कण्ठं भजे ।।53।।

सन्ध्या घर्म-दिनात्ययो हरि-कराघात-प्रभूतानक-
ध्वानो वारिद गर्जितं दिविषदां दृष्टिच्छटा चंचला ।
भक्तानां परितोष बाष्प विततिर्वृष्टिर्मयूरी शिवा
यस्मिन्नुज्ज्वल ताण्डवं विजयते तं नील-कण्ठं भजे ।।54।।

आद्यायामित तेजसे श्रुति पदैर्वेद्याय साध्याय ते
विद्यानन्द-मयात्मने त्रि-जगतस्संरक्षणोद्योगिने ।
ध्येयायाखिल योगिभिस्सुर-गणैर्गेयाय मायाविने
संयक् ताण्डव संभ्रमाय जटिने सेयं नतिश्शंभवे ।।55।।

नित्याय त्रिगुणात्मने पुर-जिते कात्यायनी श्रेयसे
सत्यायादि कुटुम्बिने मुनि-मनः प्रत्यक्ष चिन्मूर्तये ।
माया सृष्ट जगत्त्रयाय सकलाम्नायान्त संचारिणे
सायं ताण्डव संभ्रमाय जटिने सेयं नतिश्शंभवे ।।56।।

नित्यं स्वोदर पोषणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतस्सेवां न जाने विभो ।
मज्जन्मान्तर पुण्य-पाक बलतस्त्वं शर्व सर्वान्तरः-
तिष्ठस्येव हि तेन वा पशु-पते ते रक्षणीयोऽस्म्यहम् ।।57।।

एको वारिज बान्धवः क्षिति-नभो व्याप्तं तमो-मण्डलं
भित्वा लोचन-गोचरोपि भवति त्वं कोटि-सूर्य प्रभः ।
वेद्यः किं न भवस्यहो घन-तरं कीदृङ्-भवेन्-मत्तमस्-
तत्सर्वं व्यपनीय मे पशु-पते साक्षात् प्रसन्नो भव ।।58।।

हंसः पद्म-वनं समिच्छति यथा नीलांबुदं चातकः
कोकः कोक-नद प्रियं प्रति-दिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्छति मामकं पशु-पते चिन्मार्ग मृग्यं विभो
गौरी नाथ भवत्पदाब्ज-युगलं कैवल्य सौख्य-प्रदम् ।।59।।

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितः
भीतः स्वस्थ गृहं गृहस्थं अतिथिर्दीनः प्रभं धार्मिकम् ।
दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
चेतस्सर्व भयापहं व्रज सुखं शंभोः पदांभोरुहम् ।।60।।

अंकोलं निज बीज सन्ततिरयस्कान्तोपलं सूचिका
साध्वी नैज विभुं लता क्षिति-रुहं सिन्धुस्सरिद् वल्लभम् ।
प्राप्नोतीह यथा तथा पशु-पतेः पादारविन्द-द्वयं
चेतो-वृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ।।61।।

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचा शंख मुखे स्थितैश्च जठरा-पूर्तिं चरित्रामृतैः ।
रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना-
पर्यंके विनिवेश्य भक्ति जननी भक्तार्भकं रक्षति ।।62।।

मार्गावर्तित पादुका पशु-पतेरङ्गस्य कूर्चायते
गण्डूषांबु निषेचनं पुर-रिपोर्दिव्याभिषेकायते
किंचिद्भक्षित मांस-शेष-कबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वन-चरो भक्तावतंसायते ।।63।।

वक्षस्ताडनमन्तकस्य कठिनापस्मार संमर्दनं
भूभृत् पर्यटनं नमत्सुर-शिरः कोटीर संघर्षणम् ।
कर्मेदं मृदुलस्य तावक-पद द्वन्द्वस्य गौरी-पते
मच्चेतो मणि-पादुका विहरणं शंभो सदांगी-कुरु ।।64।।

वक्षस्ताडन शंकया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वल रत्न-दीप-कलिका नीराजनं कुर्वते ।
दृष्ट्वा मुक्ति-वधूस्तनोति निभृताश्लेषं भवानी-पते
यच्चेतस्तव पाद-पद्म-भजनं तस्येह किं दुर्लभम् ।।65।।

क्रीडार्थं सृजसि प्रपंचमखिलं क्रीडा-मृगास्ते जनाः
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।
शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामक रक्षणं पशु-पते कर्तव्यमेव त्वया ।।66।।

बहु-विध परितोष बाष्प-पूर
स्फुट पुलकांकित चारु-भोग भूमिम् ।
चिर-पद फल-कांक्षि सेव्यमानां
परम सदाशिव भावनां प्रपद्ये ।।67।।

अमित मुदमृतं मुहुर्दुहन्तीं
विमल भवत्पद-गोष्ठमावसन्तीम् ।
सदय पशु-पते सुपुण्य पाकां
मम परिपालय भक्ति धेनुमेकाम् ।।68।।

जडता पशुता कलंकिता
कुटिल चरत्वं च नास्ति मयि देव ।
अस्ति यदि राज-मौले
भवदाभरणस्य नास्मि किं पात्रम् ।।69।।

अरहसि रहसि स्वतन्त्र बुद्ध्या
वरि-वसितुं सुलभः प्रसन्न मूर्तिः ।
अगणित फल-दायकः प्रभुर्मे
जगदधिको हृदि राज शेखरोस्ति ।।70।।

आरूढ भक्ति-गुण कुंचित भाव चाप
युक्तैश्शिव स्मरण बाण-गणैरमोघैः ।
निर्जित्य किल्बिष-रिपून् विजयी
सुधीन्द्रस्सानन्दमावहति सुस्थिर राज-लक्ष्मीम् ।।71।।

ध्यानांजनेन समवेक्ष्य तमःप्रदेशं
भित्वा महा-बलिभिरीश्वर-नाम मन्त्रैः ।
दिव्याश्रितं भुजग-भूषणमुद्वहन्ति
ये पाद पद्ममिह ते शिव ते कृतार्थाः ।।72।।

भू-दारतामुदवहद् यदपेक्षया श्री-
भू-दार एव किमतस्सुमते लभस्व ।
केदारमाकलित मुक्ति महौषधीनां
पादारविन्द भजनं परमेश्वरस्य ।।73।।

आशा-पाश-क्लेश-दुर्वासनादि-
भेदोद्युक्तैः दिव्य-गन्धैरमन्दैः ।
आशा-शाटीकस्य पादारविन्दं
चेतःपेटीं वासितां मे तनोतु ।।74।।

कल्याणिनं सरस-चित्र-गतिं सवेगं
सर्वेंगितज्ञमनघं ध्रुव लक्षणाढ्यम् ।
चेतस्तुरंगम् अधिरुह्य चर स्मरारे
नेतस्समस्त जगतां वृषभाधिरूढ ।।75।।

भक्तिर्महेश पद-पुष्करमावसन्ती
कादंबिनीव कुरुते परितोष-वर्षम् ।
संपूरितो भवति यस्य मनस्तटाकः-
तज्जन्म-सस्यमखिलं सफलं च नान्यत् ।।76।।

बुद्धिःस्थिरा भवितुमीश्वर पाद-पद्म
सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
सद्भावना स्मरण-दर्शन-कीर्तनादि
संमोहितेव शिव-मन्त्र जपेन विन्ते ।।77।।

सदुपचार विधिष्वनुबोधितां
सविनयां सुहृदं सदुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
वर-गुणेन नवोढ वधूमिव ।।78।।

नित्यं योगि मनस्सरोज-दल संचार क्षमस्त्वत्
क्रमश्शंभो तेन कथं कठोर यमराड् वक्षःकवाट-क्षतिः ।
अत्यन्तं मृदुलं त्वदंघ्रि युगलं हा मे मनश्चिन्तयति-
एतल्लोचन गोचरं कुरु विभो हस्तेन संवाहये ।।79।।

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति
मद्रक्षायै गिरि सीम्नि कोमल-पदन्यासः पुराभ्यासितः ।
नोचेद् दिव्य गृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायस्सत्सु शिला-तलेषु नटनं शंभो किमर्थं तव ।।80।।

कंचित्कालमुमा-महेश भवतः पादारविन्दार्चनैः
कंचिद्ध्यान समाधिभिश्च नतिभिः कञ्चित् कथाकर्णनैः ।
कंचित् कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं
यःप्राप्नोति मुदा त्वदर्पित मना जीवन् स मुक्तःखलु ।।81।।

बाणत्वं वृषभत्वं अर्ध-वपुषा भार्यात्वं आर्या-पते
घोणित्वं सखिता मृदंग वहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतवान् त्वद्देह भागो हरिः
पूज्यात्पूज्य-तरस्स एव हि न चेत् को वा तदन्योऽधिकः ।।82।।

जनन-मृति-युतानां सेवया देवतानां
न भवति सुख लेशस्संशयो नास्ति तत्र ।
अजनिममृत रूपं सांबमीशं भजन्ते
य इह परम सौख्यं ते हि धन्या लभन्ते ।।83।।

शिव तव परिचर्या सन्निधानाय गौर्या
भव मम गुण-धुर्यां बुद्धि-कन्यां प्रदास्ये ।
सकल भुवन बन्धो सच्चिदानन्द सिन्धो
सदय हृदय-गेहे सर्वदा संवस त्वम् ।।84।।

जलधि मथन दक्षो नैव पाताल भेदी
न च वन मृगयायां नैव लुब्धः प्रवीणः ।
अशन कुसुम भूषा वस्त्र मुख्यां सपर्यां
कथय कथमहं ते कल्पयानीन्दु-मौले ।।85।।

पूजा-द्रव्य समृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा कीटित्वमपि न प्राप्तं मया दुर्लभम् ।
जाने मस्तकमङ्घ्रि-पल्लवमुमा जाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ।।86।।

अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः ।
मम दास्यसि किं किमस्ति शंभो
तव पादांबुज भक्तिमेव देहि ।।87।।

यदा कृतांभो-निधि सेतु-बन्धनः
करस्थ लाधः कृत पर्वताधिपः ।
भवानि ते लंघित पद्म-सम्भवः
तदा शिवार्चास्तव भावन-क्षमः ।।88।।

नतिभिर्नुतिभिस्त्वमीश पूजा
विधिभिर्ध्यान-समाधिभिर्न तुष्टः ।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीति-करं तथा करोमि ।।89।।

वचसा चरितं वदामि
शंभोरहं उद्योग विधासु तेऽप्रसक्तः ।
मनसाकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि ।।90।।

आद्याऽविद्या हृद्गता निर्गतासीत्-
विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
सेवे नित्यं श्री-करं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राज-मौले ।।91।।

दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्य दुःख दुरहंकृति दुर्वचांसि ।
सारं त्वदीय चरितं नितरां पिबन्तं
गौरीश मामिह समुद्धर सत्कटाक्षैः ।।92।।

सोम कला-धर-मौलौ
कोमल घन-कन्धरे महा-महसि ।
स्वामिनि गिरिजा नाथे
मामक हृदयं निरन्तरं रमताम् ।।93।।
सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः ।
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति ।।94।।

अति मृदुलौ मम
चरणावति कठिनं ते मनो भवानीश ।
इति विचिकित्सां संत्यज
शिव कथमासीद्गिरौ तथा प्रवेशः ।।95।।

धैयांकुशेन निभृतं
रभसादाकृष्य भक्ति-शृंखलया ।
पुर-हर चरणालाने
हृदय मदेभं बधान चिद्यन्त्रैः ।।96।।

प्रचरत्यभितः प्रगल्भ-वृत्त्या
मदवानेष मनः-करी गरीयान् ।
परिगृह्य नयेन भक्ति-रज्ज्वा
परम स्थाणु-पदं दृढं नयामुम् ।।97।।

सर्वालंकार-युक्तां सरल-पद-युतां साधु-वृत्तां सुवर्णां
सद्भिस्संस्तूयमानां सरस गुण-युतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषा-विशेषाम् उपगत-विनयां द्योतमानार्थ-रेखां
कल्याणीं देव गौरी-प्रिय मम कविता-कन्यकां त्वं गृहाण ।।98।।

इदं ते युक्तं वा परम-शिव कारुण्य जलधे
गतौ तिर्यग्रूपं तव पद-शिरो-दर्शन-धिया ।
हरि-ब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रम-युतौ
कथं शंभो स्वामिन् कथय मम वेद्योसि पुरतः ।।99।।

स्तोत्रेणालं अहं प्रवच्मि न मृषा देवा विरिंचादयः
स्तुत्यानां गणना-प्रसंग-समये त्वामग्रगण्यं विदुः ।
माहात्म्याग्र-विचारण-प्रकरणे धाना-तुषस्तोमवत्
धूतास्त्वां विदुरुत्तमोत्तम फलं शंभो भवत्सेवकाः ।।100।।

इति श्रीमत्परम-हंस परिव्राजकाचार्य-
श्रीमत् शंकराचार्य विरचिता शिवानन्द लहरी समाप्ता ।।

Categories: સંસ્કૃત, સ્તોત્ર | Tags: , | 1 Comment

आत्मबोध – आदि शंकराचार्य

तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् ।
मुमुक्षूणामपेक्ष्यॊऽयमात्मबोधो विधीयते ॥१॥

This Atmabodha is prescribed and applicable only for those whose sins have been destroyed by austerities, who have a calm mind, who are devoid of attachment and who desire liberation from the cycle of births and deaths.

बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम्।
पाकस्य वह्निवत्ज्ञानं विना मोक्षो न सिध्यति ॥२॥

Compared to other means, knowledge is the only direct means to liberation. Just like food cannot be cooked without fire liberation cannot be attained without knowledge.

अविरोधितया कर्म नाविद्यां विनिवर्तयेत्।
विद्याऽविद्यां निहन्त्येव तेजस्तिमिरसङ्घवत् ॥३॥

Karma (that which springs from ahamkara) does not remove ignorance as it is not opposed to it. Knowledge removes ignorance as light dispels darkness.

अवच्छिन्न इवाज्ञानात्तन्नाशे सति केवलः।
स्वयं प्रकाशते ह्यात्मा मेघापायेंशुमानिव ॥४॥

The self appears conditioned because of ignorance. Once it is destroyed only the pure Self shines by its own light just as the Sun is seen when the clouds disappear.

अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् ।
कृत्वा ज्ञानं स्वयं नश्येज्ज्लं कतकरेणुवत् ॥५॥

The self tainted by ignorance (of identifying oneself with the body-mind-intellect apparatus) is rendered pure by knowledge arising out of constant practice of thinking ‘ I am the pure Atman, not the senses, body, mind or intellect’. After this, knowledge itself subsides just as the cleaning-nut itself subsides after purifying the water into which it is put.

संसारः स्वप्नतुल्यो हि रागद्वेषादि संकुलः।
स्वकाले सत्यवद्भाति प्रबोधे सत्यसद्भवेत् ॥६॥

This samsara full of likes and dislikes is just like a dream. During the dream it appears real but on waking up one realizes that it was unreal.

तावत्सत्यं जगत्भाति शुक्तिकारजतं यथा ।
यवन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥७॥

The world appears real only so long as the non-dual Brahman, which is the substrate of everything, is not known. The analogy given is of the shell which appears like silver. Once it is realized that only the shell is there the illusion of silver disappears.

उपादानेऽखिलाधारे जगन्ति परमेश्वरे
सर्गस्थितिलयान्यान्ति बुद्बुदानीव वारिणि ॥८॥

The worlds appear, subsist and dissolve into the material cause which is only the Supreme Lord, the substrate of everything, just like the bubbles on the surface of water which rise from water, subsist on the surface of the water and finally dissolve into water.

सच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः ।
व्यक्तयो विविधास्सर्वा हाटके कटकादिवत् ॥९॥

All this multiplicity of names and forms are projected in the eternal Vishnu ( the all-pervading Brahman), the underlying existence-consciousness-self, like bangles and other ornaments in gold. ( the different ornaments made of gold, having different names and forms, are basically gold only. Similary everything is all-pervading Brahman)

यथाऽकाशे हृषीकेशो नानोपाधिगतो विभुः
तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥१०॥

Akasha (space) takes the form of any object enclosing it. Similarly the Lord, the indwelling spirit in all beings, appears to be different because of the differences in the bodies. When the names and forms are destroyed what remains is the only Reality.

नानोपाधिवशादेव जातिनामाश्रमादयः।
आत्मन्यारोपितास्तोये रसवर्णादिभेदवत् ॥११॥

Because of the differences in adjuncts, differences of caste, name and ashrama are superimposed on the Atman just as qualities such as taste, colour etc, are superimposed on water (because of its contact with other substances).

पञ्चीकृतमहाभूतसंभवं कर्मसञ्चितम्।
शरीरं सुखदुःखानां भोगायतनमुच्यते ॥१२॥

The body, born of quintuplicate gross elements and acquired as the fruit of past karmas, is said to be the seat where pleasure and pain are experienced.

पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्
अपञ्चीकृतभूतोत्थं सूक्ष्मांगं भोगसाधनम् ।।१३॥

The subtle body consisting of the five vital airs ( prana, apana, vyana, udana and samana), mind, intellect and the ten senses of perception and action, born of subtle elements is the instrument for experiencing (pleasure and pain).

अनाद्यविद्याऽनिर्वाच्या कारणोपाधिरुच्यते।
उपाधित्रितयादन्यमात्मानमवधारयेत् ॥१४॥

The beginningless and indefinable avidya is called the causal adjunct. The atma should be understood as different from the the three adjuncts of the causal, the subtle and the gross.

पञ्चकोशादियोगेन तत्तन्मय इव स्थितः।
शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥१५॥

The self by its association with the five sheaths appears as if it takes on the form of the sheath with which it is in contact just like pure white crystal takes the colours of blue cloth etc with which it comes into contact.

वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यवघाततः।
आत्मानमान्तरं शुद्धं विविच्यात्तण्डुलं यथा ॥१६॥

The pure inner Self should be recognized as different from the five sheaths by means of pounding with reason, just as rice is obtained by pounding paddy and removing the husk and bran.

सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते।
बुद्धावेवावभासेत स्वच्छेषु प्रतिबिंबवत् ॥१७॥

Though the Self is always everywhere it is not manifest everywhere. Just like a reflection is obtained only on a polished clear surface, the self shines only in the intellect.

देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम्।
तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥१८॥

The Atman should be comprehended as different from the body, sense organs, mind, intellect and the prakriti but as witness to their modes just as the King (who is different from his ministers etc but is a witness to their actions)

व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम्।
दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥१९॥

The ignorant think that the Self is engaged in action whereas only the sense organs are engaged in actions. When the clouds are moving in the sky the moon also appears moving though it is not so.

आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः।
स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः ॥२०॥

The body, the sense organs, the mind and the intellect act in their respective spheres powered by the Consciousness which is
the self just as people go about their jobs in the light of the Sun.

देहेन्द्रियगुणान् कर्माण्यमले सच्चिदात्मनि।
अध्यस्यन्त्यविवेकेन गगने नीलतादिवत् ॥२१॥

Because of ignorance, the qualities and activities of the body and the senses are superimposed on the existence-consciousness-self, just as blue colour etc are wrongly attributed to the sky.

अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि।
कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथांभसः ॥२२॥

Just like the movement of water is superimposed on the reflection of the moon in the water similarly, out of ignorance, the qualities and activities of the mind are also superimposed on the self.

रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते।
सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥२३॥

Attachment, desire, pleasure and pain operate only when the intellect is present. In sleep when the intellect is not present attachment, desire etc are also not present. It follows that these belong to the intellect and not to the self.

प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोष्णता।
स्वभावः सच्चिदानन्दनित्यनिर्मलतात्मनः ॥२४॥

Just as light is the nature of the Sun, coolness the nature of water and heat the nature of fire, the nature of atman is existence-consciousness-bliss, eternity and purity.

आत्मनस्सच्चिदंशश्च बुद्धेर्वृत्तिरिति द्वयम्।
संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥२५॥

The existence-consciousness part of the Self and the modes of the intellect combine, due to non-discrimination, giving rise to the cognition ‘I know’.

आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्वपि।
जीवस्सर्वमलं ज्ञात्वा कर्ता द्रष्टेति मुह्यति ॥२६॥

There is no modification of the self and the intellect (being inert) does not have knowledge. The individual self is deluded into thinking that ‘I am the doer’ and ‘I am the seer’ because of avidya or ignorance.

रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत्।
नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत् ॥२७॥

Just as mistaking a piece of rope for a snake creates fear, so also mistaking the atman for Jiva creates fear. Knowing that ‘I am not jiva’, ‘I am the paramatman’ one becomes fearless.

आत्मावभासयत्येको बुद्ध्यादीनिन्द्रियाण्यपि।
दीपो घटादिवत्स्वात्मा जडैर्स्तैर्नावभास्यते ॥२८॥

The intellect etc. and the senses are illumined by the Atman only, just as a lamp illumines the pot etc. But the Atman is not illumined by the intellect and the senses which are inert

स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः।
न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥२९॥

For knowledge of the self there is no need for another knowledge since the self itself is of the nature of knowledge. A lamp does not need another lamp in order to illumine itself.

निषिद्ध्य निखिलोपाधीन् नेति नेतीति वाक्यतः ।
विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः ॥३०॥

Negating all adjuncts of the self by the Upanishadic statements of ‘not this’, ‘not this’, one should realize the identity of the jivatma and the paramatma by meditating on the mahavakyas of the Upanishads.

आविद्यकं शरीरादि दृश्यं बुद्बुदवत्क्षरम्।
एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम् ॥३१॥

Body and other things perceived through the sense organs
are born out of avidya and are ephemeral like the bubbles
on water surface. As distinct from this, one should know that
‘ I am the pure Brahman’.

देहान्यत्वान्न मे जन्मजराकार्श्यलयादयः।
शब्दादिविषयैस्सङ्गो निरिन्द्रियतया न च ॥३२॥

Since I am different from the body, I do not have birth, old age, decay, death etc. since I do not have any senses I have nothing to do with the objects of the senses like sight, sound, taste, smell, touch etc.

अमनस्त्वान्नमे दुःखरागद्वेषभयादयः।
अप्राणोह्यमनाश्शुभ्र इत्यादि श्रुतिशासनात् ॥३३॥

Since I do not have a mind I do not have sorrow, attachment, enmity, fear etc. Sruthi says that ‘It is without the vital air and without a mind and is pure’.

निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरञ्जनः।
निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः ॥३४॥

I am attributeless, actionless, eternal, undetermined, unblemished, changeless, formless, eternally free and pure.

अहमाकाशवत् सर्वं बहिरन्तर्गतोऽच्युतः।
सदा सर्वसमस्सिद्धो निस्सङ्गो निर्मलोऽचलः ॥३५॥

Like space I pervade everything, inside and outside. I am unchanging, stable. I am always the same in all, complete in myself, unattached, pure and unmoving.

नित्यशुद्धविमुक्तैकमखण्डानन्दमद्वयम्।
सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥३६॥

I am the Srupreme Brahman eternal, pure, free, alone, undivided bliss, one without a second, absolute-existence-consciousness and infinite.

एवं निरन्तरकृता ब्रह्मैवास्मीति भावना।
हरत्यविद्याविक्षेपान् रोगानिव रसायनम् ॥३७॥

Thus continuous practice and affirmation of the idea ‘I am Brahman’, will remove the projections caused by Avidya just as medicines remove illness.

विविक्त देश आसीनो विरागो विजितेन्द्रियः।
भावयेदेकमात्मानं तमनन्तमनन्यधीः ॥३८॥

Seated in a solitary place, unattached and with the senses under control, one should meditate on the infinite non-dual Self with one-pointed mind.

आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः।
भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥३९॥

Dissolving all the perceived world in the Self by the intellect (mind), the wise should always contemplate the Self as the pure ether(aakaasha, space).

रूपवर्णादिकं सर्वं विहाय परमार्थवित्।
परिपूर्णचिदानन्दस्वरूपेणावतिष्ठते ॥४०॥

The realized soul mentally gives up attributes like form and colour and remains firmly established in his real nature of plenary-consciousness-bliss

ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते।
चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव तत् ॥४१॥

The distinction of knower, knowledge and object of knowledge does not exist in the self. As it is of the nature of one consciousness-bliss, it shines by its own light.

एवमात्मारणौ ध्यानमथने सततं कृते।
उदितावगतिज्वाला सर्वाज्ञानेन्धनं दहेत् ॥४२॥

Thus when continuous churning by meditation takes place in the arani of the Self, the fire of knowledge that bursts out will destroy all the firewood of ignorance.

अरुणेनेव बोधेन पूर्वं सन्तमसे हते।
तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥४३॥

When the darkness of ignorance is dispelled by the knowledge of
Arunodaya the Self becomes manifest by itself like the Sun.

आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया।
तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणं यथा ॥४४॥

Though the Self is always attained, it seems to be unattained because of Avidya(nescience). When Avidya is destroyed it appears as if the Self has been attained like the ornament worn around the neck. ( the analogy is of a person wearing the ornament who searches for it every where unaware that it is around his neck but finally finds it around his own neck.)

स्थाणौ पुरुषवद्भ्रान्त्या कृता ब्रह्मणि जीवता।
जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते ॥४५॥

The state of being individual self is caused in Brahman by delusion like the appearance of the form of a man in a pillar. This delusion is removed when the essence of the individual soul is perceived in Brahman.

तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमञ्जसा।
अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ॥४६॥

The knowledge arising out of the experience of the nature of Truth demolishes the ignorance of the form of ‘I’ and ‘Mine’ just like the confusion regarding directions is demolished (when the sun rises dispelling darkness).

सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिलं स्थितं।
एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥४७॥

The Yogi who has true wisdom sees everything in himself. With the eyes of wisdom he sees the one self in all.

आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न किञ्चन।
मृदो यद्वद्घटादीनि स्वात्मानं सर्वमीक्षते ॥४८॥

The entire world is the Self (Atma). There is nothing other than the Atman. The man of wisdom sees all as the Self just like pots and other earthenware are seen as clay only.

जीवन्मुक्तिस्तु तद्विद्वान्पूर्वोपाधिगुणांस्त्यजेत्।
स सच्चिदादिधर्मत्वं भेजे भ्रमरकीटवत् ॥४९॥

That is liberation while living wherein the wise one gives up the previous limiting adjuncts and attains the nature of Existence-Consciousness etc like the worm becoming the wasp.

तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान्।
योगी शान्तिसमायुक्त आत्मारामो विराजते ॥५०॥

Having crossed the ocean of delusion and having killed the demons of likes and dislikes, the Yogi revels in the Self in perfect peace.

बाह्यानित्यसुखासक्तिं हित्वाऽऽत्मसुखनिर्वृतः।
घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥५१॥

Abandoning the desire for the ephemeral external pleasures and content with the supreme happiness of the Self, the Yogi ever shines within, like a lamp placed in a pot.

उपाधिस्थोऽपि तद्धर्मैरलिप्तो व्योमवन्मुनिः।
सर्वविन्मूढवत्तिष्ठेदसक्तो वायुवच्चरेत् ॥५२॥

The sage who has silenced his speech and his mind (muni), though staying amidst limiting adjuncts, is not tainted by them like
Ether(space). He lives like the ignorant though he knows all. He moves about like air without being attached.

उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः।
जले जलं वियद्व्योम्नि तेजस्तेजसि वा यथा ॥५३॥

When the adjuncts are dissolved, the sage enters and merges with the undifferentiated all-pervading reality, just like water becomes one with water, space becomes one with space and light becomes one with light.

यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम्।
यज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् ॥५४॥

Gaining which nothing else is to be gained, experiencing the happiness of which no other happiness matters and knowing which nothing else is to be known, know that to be Brahman.

यद्दृष्ट्वा नापरं दृश्यं यद्भूत्वा न पुनर्भवः।
यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यवधारयेत् ॥५५॥

Having seen which nothing else is to be seen, becoming which there is nothing else to become and knowing which there is nothing more to be known, know that to be brahman.

तिर्यगूर्ध्वमधः पूर्णं सच्चिदानन्दमद्वयम्।
अनन्तं नित्यमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥५६॥

That which pervades across, above and below, which is the non-dual existence-consciousness-bliss, which is infinite and eternal, know that to be Brahman.

अतद्व्यावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽव्ययम्।
अखण्डानन्दमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥५७॥

That which is indicated by the Upanishads in terms of ‘not this, not this’, which is immutable and which is non-dual and of the nature of indivisible bliss, know that to be Brahman.

अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः।
ब्रहाद्यास्तारतम्येन भवन्त्यानान्दिनोऽखिलाः ॥५८॥

Brahma and all the other celestials become relatively blissful depending on a particle of bliss of that Brahman whose nature is indivisible and infinite Bliss

तद्युक्तमखिलं वस्तु व्यवहारश्चिदन्वितः।
तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले ॥५९॥

All objects are united with Brahman and empirical usage is pervaded by consciousness. Thus the all-pervading Brahman is in all like butter (ghee) in milk.

अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम्।
अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत् ॥६०॥

Know that to be Brahman which is not subtle, not gross, not short, not long, unborn, unchanging, without form, quality, caste or name.

यद्भासा भासतेऽर्कादि भास्यैर्यत्तु न भास्यते।
येन सर्वमिदं भाति तद्ब्रह्मेत्यवधारयेत् ॥६१॥

That by whose light shine the Sun and other luminous bodies, which does not shine by the light of those illuminated bodies, by which all this shine, know that to be Brahman.

स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलं जगत्।
ब्रह्म प्रकाशते वह्निप्रतप्तायसपिण्डवत् ॥६२॥

Pervading inside and outside of everything and illuminating the entire universe, Brahman shines like the fire by which a ball of iron has been made red-hot. [ Though the ball of iron appears rad and hot, what is really bright and hot is the fire which imparts its properties to the iron.]

जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किञ्चन।
ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका ॥६३॥

Brahman is different from the world. There is nothing other than Brahman. If anything other than Brahman is manifest it is only an illusion as the mirage in the desert.

दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत्।
तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम् ॥६४॥

Whatever is seen or heard cannot be other than Brahman. Through true knowledge it is realised that Brahman is the non-dual existence-consciousness-bliss

सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते।
अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥६५॥

He who has eyes of wisdom sees the self which is all-pervading and existence-consciousness. He who has eyes of ignorance does not see just as the blind man does not see the sun that is shining.

श्रवणादिभिरुद्दीप्तज्ञानाग्निपरितापिताः।

जीवस्सर्वमलान्मुक्तस्स्वर्णवद्द्योतते स्वयम् ॥६६॥

Heated in the fire of knowledge kindled by hearing etc. the individual soul becomes free from all impurities and shines by itself like (molten) gold.

हृदाकाशोदितो ह्यात्मा बोधभानुस्तमोपहृत्।
सर्वव्यापी सर्वधारी भाति भासयतेऽखिलम् ॥६७॥

The self, the sun of knowledge, rises in the space of the heart
and dispels the darkness of ignorance. It pervades everything, it supports all, it shines by itself and illumines everything.

दिग्देशकालाद्यनवेक्ष्य सर्वगं
शीतादिहृन्नित्यसुखं निरञ्जनम्
यस्स्वात्मतीर्थं भजते विनिष्क्रियः
स सर्ववित्सर्वगतोऽमृतो भवेत् ॥६८॥

He who, giving up all actions and discarding directions, place, time etc, takes to the holy waters of his own Self which is all-pervading, which destroys cold etc, which is eternal happiness and which is untainted becomes all-knowing, all-pervading and immortal.


सौजन्य: http://prramamurthy1931.blogspot.in/2011/1/atmabodha-of-sankaracharya.html


Categories: અધ્યાત્મ / યોગ, આર્ષદર્શન, સંસ્કૃત, સ્તોત્ર | Tags: , | Leave a comment

યોગતારાવલી – આદિ શંકરાચાર્ય

યોગતારાવલી સ્તોત્ર શ્લોકાર્થ તથા ટીકા સાથે વાંચવા નીચેની લિંક પર ક્લિક કરશો :

યોગતારાવલી

Categories: અધ્યાત્મ / યોગ, સંસ્કૃત, સ્તોત્ર | Tags: , , | Leave a comment

યોગ તારાવલી (૧૮ થી ૨૨ / ૨૯) – આદિ શંકરાચાર્ય




Categories: અધ્યાત્મ / યોગ, સંસ્કૃત, સ્તોત્ર | Tags: , , | Leave a comment

યોગ તારાવલી (૧૨ થી ૧૭ / ૨૯) – આદિ શંકરાચાર્ય



Categories: અધ્યાત્મ / યોગ, સંસ્કૃત, સ્તોત્ર | Tags: , , | Leave a comment

યોગ તારાવલી (૬ થી ૧૧ / ૨૯) – આદિ શંકરાચાર્ય




Categories: અધ્યાત્મ / યોગ, સંસ્કૃત, સ્તોત્ર | Tags: , , | Leave a comment

યોગ તારાવલી (૧ થી ૫ / ૨૯) – આદિ શંકરાચાર્ય



Categories: અધ્યાત્મ / યોગ, સંસ્કૃત, સ્તોત્ર | Tags: , , | 1 Comment

योगतारावली – आदि शंकराचार्य

वन्दे गुरूणां चरणारविन्दे सन्दर्शितस्वात्मसुखावबोधे ।
जनस्य ये जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यै ॥ १॥

सदाशिवोक्तानि सपादलक्षलयावधानानि वसन्ति लोके ।
नादानुसन्धानसमाधिमेकं मन्यामहे मान्यतमं लयानाम् ॥ २॥

सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाडीषु विशोधितासु ।
अनाहताख्यो बहुभिः प्रकारैरन्तः प्रवर्तेत सदा निनादः ॥ ३॥

नादानुसन्धान नमोऽस्तु तुभ्यं त्वां साधनं तत्त्वपदस्य जाने ।
भवत्प्रसादात्पवनेन साकं विलीयते विष्णुपदे मनो मे ॥ ४॥

जालन्धरोड्याणनमूलबन्धाञ्जल्पन्ति कण्ठोदरपायुमूलान् ।
बन्धत्रयेऽस्मिन्परिचीयमाने बन्धः कुतो दारुणकालपाशात् ॥ ५॥

ओड्याणजालन्धरमूलबन्धैरुन्निद्रितायामुरगाङ्गनायाम् ।
प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्नां गमागमौ मुञ्चति गन्धवाहः ॥ ६॥

उत्थापिताधारहुताशनोल्कैराकुञ्चनैः शश्वदपानवायोः ।
सन्तापिताच्चन्द्रमसः पतन्तीं पीयूषधारां पिबतीह धन्यः ॥ ७॥

बन्धत्रयाभ्यासविपाकजातां विवर्जितां रेचकपूरकाभ्याम् ।
विशोषयन्तीं विषयप्रवाहं विद्यां भजे केवलकुम्भरूपाम् ॥ ८॥

अनाहते चेतसि सावधानैरभ्यासशूरैरनुभूयमाना ।
संस्तम्भितश्वासमनःप्रचारा सा जृम्भते केवलकुम्भकश्रीः ॥ ९॥

सहस्रशः सन्तु हठेषु कुम्भाः सम्भाव्यते केवलकुम्भ एव ।
कुम्भोत्तमे यत्र तु रेचपूरौ प्राणस्य न प्राकृतवैकृताख्यौ ॥ १०॥

त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गे खे स्तम्भिते केवलकुम्भकेन ।
प्राणानिलो भानुशशाङ्कनाड्यौ विहाय सद्यो विलयं प्रयाति ॥ ११॥

प्रत्याहृतः केवलकुम्भकेन प्रबुद्धकुण्डल्युपभुक्तशेषः ।
प्राणः प्रतीचीनपथेन मन्दं विलीयते विष्णुपदान्तराले ॥ १२॥

निरङ्कुशानां श्वसनोद्गमानां निरोधनैः केवलकुम्भकाख्यैः ।
उदेति सर्वेन्द्रियवृत्तिशून्यो मरुल्लयः कोऽपि महामतीनाम् ॥ १३॥

न दृष्टिलक्ष्याणि न चित्तबन्धो न देशकालौ न च वायुरोधः ।
न धारणाध्यानपरिश्रमो वा समेधमाने सति राजयोगे ॥ १४॥

अशेषदृश्योज्झितदृङ्मयानामवस्थितानामिह राजयोगे ।
न जागरो नापि सुषुप्तिभावो न जीवितं नो मरणं विचित्रम् ॥ १५॥

अहम्ममत्वाद्व्यपहाय सर्व श्रीराजयोगे स्थिरमानसानाम् ।
न द्रष्टृता नास्ति च दृश्यभावः सा जृम्भते केवलसंविदेव ॥ १६॥

नेत्रे ययोन्मेषनिमेषशून्ये वायुर्यया वर्जितरेचपूरः ।
मनश्च सङ्कल्पविकल्पशून्यं मनोन्मनी सा मयि सन्निधत्ताम् ॥ १७॥

चित्तेन्द्रियाणां चिरनिग्रहेण श्वासप्रचारे शमिते यमीन्द्राः ।
निवातदीपा इव निश्चलाङ्गाः मनोन्मनीमग्नधियो भवन्ति ॥ १८॥

उन्मन्यवस्थाधिगमाय विद्वन् उपायमेकं तव निर्दिशामः ।
पश्यन्नुदासीनतया प्रपञ्चं सङ्कल्पमुन्मूलय सावधानः ॥ १९॥

प्रसह्य सङ्कल्पपरंपराणां संभेदने सन्ततसावधानम् ।
आलम्बनाशादपचीयमानं शनैः शनैः शान्तिमुपैति चेतः ॥ २०॥

निश्वासलोपैर्निभृतैः शरीरैर्नेत्राम्बुजैरर्धनिमीलितैश्च ।
आविर्भवन्तीममनस्कमुद्रामालोकयामो मुनिपुङ्गवानाम् ॥ २१॥

अमी यमीन्द्राः सहजामनस्कादहंममत्वे शिथिलायमाने ।
मनोतिगं मारुतवृत्तिशून्यं गच्छन्ति भावं गगनावशेषम् ॥ २२॥

निवर्तयन्तीं निखिलेन्द्रियाणि प्रवर्तयन्तीं परमात्मयोगम् ।
संविन्मयीं तां सहजामनस्कां कदा गमिष्यामि गतान्यभावः ॥ २३॥

प्रत्यग्विमर्शातिशयेन पुंसां प्राचीनगन्धेषु पलायितेषु ।
प्रादुर्भवेत्काचिदजाड्यनिद्रा प्रपञ्चचिन्तां परिवर्जयन्ती ॥ २४॥

विच्छिन्नसङ्कल्पविकल्पमूले निःशेषनिर्मूलितकर्मजाले ।
निरन्तराभ्यासनितान्तभद्रा सा जृम्भते योगिनि योगनिद्रा ॥ २५॥

विश्रान्तिमासाद्य तुरीयतल्पे विश्वाद्यवस्थात्रितयोपरिस्थे ।
संविन्मयीं कामपि सर्वकालं निद्रां सखे निर्विश निर्विकल्पाम् ॥ २६॥

प्रकाशमाने परमात्मभानौ नश्यत्यविद्यातिमिरे समस्ते ।
अहो बुधा निर्मलदृष्टयोऽपि किञ्चिन्न पश्यन्ति जगत्समग्रम् ॥ २७॥

सिद्धिं तथाविधमनोविलयां समाधौ
श्रीशैलश्रृङ्गकुहरेषु कदोपलप्स्ये ।
गात्रं यदा मम लताः परिवेष्टयन्ति
कर्णे यदा विरचयन्ति खगाश्च नीडान् ॥ २८॥

विचरतु मतिरेषा निर्विकल्पे समाधौ
कुचकलशयुगे वा कृष्णसारेक्षणानाम् ।
चरतु जडमते वा सज्जनानां मते वा
मतिकृतगुणदोषा मां विभुं न स्पृशन्ति ॥ २९॥

॥ इति श्री आदि शङ्करभगवत्पाद विरचितं योगतारावली सम्पूर्णम् ॥

Categories: અધ્યાત્મ / યોગ, સ્તોત્ર | Tags: , | 3 Comments

શ્રી હરિ મીડે સ્તોત્ર – આદિ શંકરાચાર્ય

શ્રી હરિમીડે સ્તોત્ર PDF Format માં Download કરવા માટે નીચેની લિન્ક પર ક્લિક કરશો.

શ્રી હરિમીડે સ્તોત્ર

Categories: અધ્યાત્મ / યોગ, સ્તોત્ર | Tags: , | Leave a comment

શ્રી હરિ મીડે સ્તોત્ર – આદિ શંકરાચાર્ય (૩૭ થી ૪૦ / ૪૪)

ક્ર્મ

શ્લોક

શબ્દાર્થ

૩૭

सत्तामात्रं केवलविज्ञानमजं सत्

सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।

साम्नामन्ते प्राह पिता यं विभुमाद्यं

तं संसारध्वान्तविनाशं हरिमीडे ॥३७॥

સત્તામાત્ર, કેવલ વિજ્ઞાનરુપ, અજન્મા, સદરૂપ, સુક્ષ્મ ને નિત્ય તે તું છે તેમ પોતાના પુત્રને સામવેદની છંદોગ્યોપનિષદમાં પિતા જે વ્યાપક તથા આદ્યને કહેતા હતા તે સંસારાંધકારનો વિનાશ – બાધ કરનાર પરમાત્માની હું સ્તુતિ કરું છું.

૩૮

मूर्तामूर्ते पूर्वमपोह्याथ समाधौ

दृश्यं सर्वं नेति च नेतीति विहाय ।

चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं

तं संसारध्वान्तविनाशं हरिमीडे ॥३८॥

પ્રથમ સાકારને ને નિરાકારને દૂર કરીને પછી બ્રહ્મમાં સર્વ દૃશ્યને આ નહિ, ને આ નહિ, એમ ત્યજીને ચેતન સ્વભાવવાળા પોતાના આત્મામાં રહેલા જેને વિદ્વાનો જાણે છે તે સંસારાંધકારનો વિનાશ – બાધ કરનાર પરમાત્માની હું સ્તુતિ કરું છું.

૩૯

ओतं प्रोतं यत्र च सर्वं गगनान्तं

योऽस्थूलाऽनण्वादिषु सिद्धोऽक्षरसंज्ञः ।

ज्ञाताऽतोऽन्यो नेत्युपलभ्यो न च वेद्य-

स्तं संसारध्वान्तविनाशं हरिमीडे ॥३९॥

આકાશ સુધી સર્વ જેમાં ઓતપ્રોત છે, જે અસ્થૂલ તથા અનણુ આદિમાં અક્ષર નામથી પ્રસિદ્ધ છે, આનાથી અન્ય જ્ઞાતા પ્રાપ્ત થવા યોગ્ય નથી તે સંસારાંધકારની નિવૃત્તિ – બાધ કરનાર હરિની હું સ્તુતિ કરું છું.

૪૦

तावत्सर्वं सत्यमिवाभाति यदेतद्‌

यावत्सोऽस्मीत्यात्मनि यो ज्ञो न हि दृष्टः ।

दृष्टे यस्मिन्सर्वमसत्यं भवतीदं

तं संसारध्वान्तविनाशं हरिमीडे ॥४०॥

જ્યાં સુધી તે હું છું એમ દેહમાં જે જ્ઞાતા છે તેનો સાક્ષાત્કાર થયો નથી ત્યાં સુધી જે આ સર્વ છે તે સત્યના જેવું જણાય છે, અને તેનો સાક્ષાત્કાર થયે સતે આ સર્વ અસત્ય થાય છે તે સંસારાંધકારની  નિવૃત્તિ – બાધ કરનાર પ્રભુની હું સ્તુતિ કરું છું.

 

Categories: અધ્યાત્મ / યોગ, સ્તોત્ર | Tags: , | Leave a comment

Blog at WordPress.com.