शिवानन्द लहरी – श्रीमत् शंकराचार्य

।।श्रीः।।
।।शिवाभ्यां नमः।।
।।शिवानन्द-लहरी।।

कलाभ्यां चूडालंकृत-शशि कलाभ्यां निज तपः-
फलाभ्यां भक्तेषु प्रकटित-फलाभ्यां भवतु मे ।
शिवाभ्यामस्तोक-त्रिभुवन-शिवाभ्यां हृदि
पुनर्भवाभ्यामानन्द-स्फुरदनुभवाभ्यां नतिरियम् ।।1।।

गलन्ती शंभो त्वच्चरित-सरितः किल्बिषरजो
दलन्ती धीकुल्या-सरणिषु पतन्ती विजयताम् ।
दिशन्ती संसार-भ्रमण-परितापोपशमनं
वसन्ती मच्चेतो-हृदभुवि शिवानन्द-लहरी ।।2।।

त्रयी-वेद्यं हृद्यं त्रि-पुर-हरमाद्यं त्रि-नयनं
जटा-भारोदारं चलदुरग-हारं मृग धरम् ।
महा-देवं देवं मयि सदय-भावं पशुपतिं
चिदालंबं सांबं शिवमति-विडंबं हृदि भजे ।।3।।

सहस्रं वर्तन्ते जगति विबुधाः क्षुद्र-फलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृत-फलम् ।
हरि-ब्रह्मादीनामपि निकट-भाजां-असुलभं
चिरं याचे शंभो शिव तव पदांभोज-भजनम् ।।4।।

स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गान-फणितौ
पुराणे मन्त्रे वा स्तुति-नटन-हास्येष्वचतुरः।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित-कृपया पालय विभो ।।5।।

घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः
पटो वा तन्तुर्वा परिहरति किं घोर-शमनम् ।
वृथा कण्ठ-क्षोभं वहसि तरसा तर्क-वचसा
पदांभोजं शंभोर्भज परम-सौख्यं व्रज सुधीः ।।6।।

मनस्ते पादाब्जे निवसतु वचः स्तोत्र-फणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णन-विधौ ।
तव ध्याने बुद्धिर्नयन-युगलं मूर्ति-विभवे
पर-ग्रन्थान् कैर्वा परमशिव जाने परमतः ।।7।।

यथा बुद्धिश्शुक्तौ रजतमिति काचाश्मनि मणिः
जले पैष्टे क्षीरं भवति मृग-तृष्णासु सलिलम् ।
तथा देव-भ्रान्त्या भजति भवदन्यं जड जनो
महा-देवेशं त्वां मनसि च न मत्वा पशुपते ।।8।।

गभीरे कासारे विशति विजने घोर-विपिने
विशाले शैले च भ्रमति कुसुमार्थं जड-मतिः ।
समर्प्यैकं चेतस्सरसिजं उमा-नाथ भवते
सुखेनावस्थातुं जन इह न जानाति किमहो ।। 9 ।।

नरत्वं देवत्वं नग-वन-मृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि-जननम् ।
सदा त्वत्पादाब्ज-स्मरण-परमानन्द-लहरी
विहारासक्तं चेद् हृदयमिह किं तेन वपुषा ।।10।।

वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्-भवतु भव किं तेन भवति ।
यदीयं हृत्पद्मं यदि भवदधीनं पशु-पते
तदीयस्त्वं शंभो भवसि भव भारं च वहसि ।।11।।

गुहायां गेहे वा बहिरपि वने वाऽद्रि-शिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तःकरणमपि शंभो तव पदे
स्थितं चेद् योगोऽसौ स च परम-योगी स च सुखी ।।12।।

असारे संसारे निज-भजन-दूरे जडधिया
भ्रमन्तं मामन्धं परम-कृपया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपण रक्षाति-निपुणः-
त्वदन्यः को वा मे त्रि-जगति शरण्यः पशु-पते ।।13।।

प्रभुस्त्वं दीनानां खलु परम-बन्धुः पशु-पते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बन्धु-सरणिः ।।14।।

उपेक्षा नो चेत् किं न हरसि भवद्ध्यान-विमुखां
दुराशा-भूयिष्ठां विधि-लिपिमशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं न नखलु सुवृत्तं पशु-पते
कथं वा निर्यत्नं कर-नख-मुखेनैव लुलितम् ।।15।।

विरिञ्चिर्दीर्घायुर्भवतु भवता तत्पर-शिरश्चतुष्कं
संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशद-कृपया पाति शिव ते
कटाक्ष-व्यापारः स्वयमपि च दीनावन-परः ।।16।।

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्नेऽपि स्वामिन् भवदमल-पादाब्ज-युगलम् ।
कथं पश्येयं मां स्थगयति नमः-संभ्रम-जुषां
निलिंपानां श्रेणिर्निज-कनक-माणिक्य-मकुटैः ।।17।।

त्वमेको लोकानां परम-फलदो दिव्य-पदवीं
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरि-मुखाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणा-पूरित-दृशा ।।18।।

दुराशा-भूयिष्ठे दुरधिप-गृह-द्वार-घटके
दुरन्ते संसारे दुरित-निलये दुःख जनके ।
मदायासं किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्चेत् तव शिव कृतार्थाः खलु वयम् ।।19।।

सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ
नटत्याशा-शाखास्वटति झटिति स्वैरमभितः ।
कपालिन् भिक्षो मे हृदय-कपिमत्यन्त-चपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ।।20।।

धृति-स्तंभाधारं दृढ-गुण निबद्धां सगमनां
विचित्रां पद्माढ्यां प्रति-दिवस-सन्मार्ग-घटिताम् ।
स्मरारे मच्चेतः-स्फुट-पट-कुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैस्सेवित विभो ।।21।।

प्रलोभाद्यैः अर्थाहरण पर-तन्त्रो धनि-गृहे
प्रवेशोद्युक्तस्सन् भ्रमति बहुधा तस्कर-पते
इमं चेतश्चोरं कथमिह सहे शंकर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ।।22।।

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वम् दिशसि खलु तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षि-मृगतां-
अदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ।।23।।

कदा वा कैलासे कनक-मणि-सौधे सह-गणैः-
वसन् शंभोरग्रे स्फुट-घटित मूर्धांजलि-पुटः ।
विभो सांब स्वामिन् परमशिव पाहीति निगदन्
विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ।।24।।

स्तवैर्ब्रह्मादीनां जय-जय-वचोभिः नियमानां
गणानां केलीभिः मदकल-महोक्षस्य ककुदि ।
स्थितं नील-ग्रीवं त्रि-नयनं-उमाश्लिष्ट-वपुषं
कदा त्वां पश्येयं कर-धृत-मृगं खण्ड-परशुम् ।।25।।

कदा वा त्वां दृष्ट्वा गिरिश तव भव्यांघ्रि-युगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समाश्लिष्याघ्राय स्फुट-जलज-गन्धान् परिमलान्-
अलभ्यां ब्रह्माद्यैः मुदमनुभविष्यामि हृदये ।।26।।

करस्थे हेमाद्रौ गिरिश निकटस्थे धन-पतौ
गृहस्थे स्वर्भूजाऽमर-सुरभि-चिन्तामणि-गणे ।
शिरस्थे शीतांशौ चरण-युगलस्थे-अखिल शुभे
कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ।।27।।

सारूप्यं तव पूजने शिव महा-देवेति संकीर्तने
सामीप्यं शिव भक्ति-धुर्य-जनता-सांगत्य-संभाषणे ।
सालोक्यं च चराचरात्मक तनु-ध्याने भवानी-पते
सायुज्यं मम सिद्धिमत्र भवति स्वामिन् कृतार्थोस्म्यहम् ।।28।।

त्वत्पादांबुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शंभो लोक-गुरो मदीय-मनसः सौख्योपदेशं कुरु ।।29।।

वस्त्रोद्धूत विधौ सहस्र-करता पुष्पार्चने विष्णुता
गन्धे गन्ध-वहात्मताऽन्न-पचने बहिर्मुखाध्यक्षता ।
पात्रे कांचन-गर्भतास्ति मयि चेद् बालेन्दु चूडा-मणे
शुश्रूषां करवाणि ते पशु-पते स्वामिन् त्रि-लोकी-गुरो ।।30।।

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन् कुक्षि-गतान् चराचर-गणान् बाह्य-स्थितान् रक्षितुम् ।
सर्वामर्त्य-पलायनौषधं अति-ज्वाला-करं भी-करं
निक्षिप्तं गरलं गले न गलितं नोद्गीर्णमेव-त्वया ।।31।।

ज्वालोग्रस्सकलामराति-भयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः कर-तले किं पक्व जंबू-फलम् ।
जिह्वायां निहितश्च सिद्ध-घुटिका वा कण्ठ-देशे भृतः
किं ते नील-मणिर्विभूषणमयं शंभो महात्मन् वद ।।32।।

नालं वा सकृदेव देव भवतस्सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथा-श्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिर-देवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत् किं प्रार्थनीयं तदा ।।33।।

किं ब्रूमस्तव साहसं पशु-पते कस्यास्ति शंभो
भवद्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देव-गणं त्रसन्मुनि-गणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्द-सान्द्रो भवान् ।।34।।

योग-क्षेम-धुरंधरस्य सकलःश्रेयः प्रदोद्योगिनो
दृष्टादृष्ट-मतोपदेश-कृतिनो बाह्यान्तर-व्यापिनः ।
सर्वज्ञस्य दया-करस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमान्तरंग इति मे चित्ते स्मराम्यन्वहम् ।।35।।

भक्तो भक्ति-गुणावृते मुदमृता-पूर्णे प्रसन्ने मनः
कुम्भे सांब तवांघ्रि-पल्लव युगं संस्थाप्य संवित्फलम् ।
सत्त्वं मन्त्रमुदीरयन्निज शरीरागार शुद्धिं वहन्
पुण्याहं प्रकटी करोमि रुचिरं कल्याणमापादयन् ।।36।।

आम्नायांबुधिमादरेण सुमनस्संघाः-समुद्यन्मनो
मन्थानं दृढ भक्ति-रज्जु-सहितं कृत्वा मथित्वा ततः ।
सोमं कल्प-तरुं सुपर्व-सुरभिं चिन्ता-मणिं धीमतां
नित्यानन्द-सुधां निरन्तर-रमा-सौभाग्यमातन्वते ।।37।।

प्राक्पुण्याचल-मार्ग-दर्शित-सुधा-मूर्तिः प्रसन्नश्शिवः
सोमस्सद्-गुण-सेवितो मृग-धरः पूर्णास्तमो मोचकः ।
चेतः पुष्कर लक्षितो भवति चेदानन्द-पाथो निधिः
प्रागल्भ्येन विजृंभते सुमनसां वृत्तिस्तदा जायते ।।38।।

धर्मो मे चतुरंघ्रिकः सुचरितः पापं विनाशं गतं
काम-क्रोध-मदादयो विगलिताः कालाः सुखाविष्कृताः ।
ज्ञानानन्द-महौषधिः सुफलिता कैवल्य नाथे सदा
मान्ये मानस-पुण्डरीक-नगरे राजावतंसे स्थिते ।।39।।

धी-यन्त्रेण वचो-घटेन कविता-कुल्योपकुल्याक्रमैः-
आनीतैश्च सदाशिवस्य चरितांभोराशि-दिव्यामृतैः ।
हृत्केदार-युताश्च भक्ति-कलमाः साफल्यमातन्वते
दुर्भिक्षान्मम सेवकस्य भगवन् विश्वेश भीतिः कुतः ।।40।।

पापोत्पात-विमोचनाय रुचिरैश्वर्याय मृत्युं-जय
स्तोत्र-ध्यान-नति-प्रदिक्षिण-सपर्यालोकनाकर्णने ।
जिह्वा-चित्त-शिरोंघ्रि-हस्त-नयन-श्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ।।41।।

गांभीर्यं परिखा-पदं घन-धृतिः प्राकार उद्यद्गुण
स्तोमश्चाप्त बलं घनेन्द्रिय-चयो द्वाराणि देहे स्थितः ।
विद्या-वस्तु-समृद्धिरित्यखिल-सामग्री-समेते सदा
दुर्गाति-प्रिय-देव मामक-मनो-दुर्गे निवासं कुरु ।।42।।

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादि किरात मामक-मनः कान्तार-सीमान्तरे ।
वर्तन्ते बहुशो मृगा मद-जुषो मात्सर्य-मोहादयः
तान् हत्वा मृगया विनोद रुचिता-लाभं च संप्राप्स्यसि ।।43।।

कर-लग्न मृगः करीन्द्र-भंगो
घन शार्दूल-विखण्डनोऽस्त-जन्तुः ।
गिरिशो विशदाकृतिश्च चेतः
कुहरे पञ्च मुखोस्ति मे कुतो भीः ।।44।।

छन्दश्शाखि शिखान्वितैः द्विज-वरैः संसेविते शाश्वते
सौख्यापादिनि खेद-भेदिनि सुधा-सारैः फलैर्दीपिते ।
चेतः पक्षि शिखा-मणे त्यज वृथा संचारं अन्यैरलं
नित्यं शंकर-पाद-पद्म-युगली-नीडे विहारं कुरु ।।45।।

आकीर्णे नख-राजि-कान्ति-विभवैरुद्यत्-सुधा-वैभवैः
आधौतेपि च पद्म-राग-ललिते हंस-व्रजैराश्रिते ।
नित्यं भक्ति-वधू गणैश्च रहसि स्वेच्छा-विहारं कुरु
स्थित्वा मानस-राज-हंस गिरिजा नाथांघ्रि-सौधान्तरे ।।46।।

शंभु-ध्यान-वसन्त-संगिनि हृदारामे-अघ-जीर्णच्छदाः
स्रस्ता भक्ति लताच्छटा विलसिताः पुण्य-प्रवाल-श्रिताः ।
दीप्यन्ते गुण-कोरका जप-वचः पुष्पाणि सद्वासना
ज्ञानानन्द-सुधा-मरन्द-लहरी संवित्फलाभ्युन्नतिः ।।47।।

नित्यानन्द-रसालयं सुर-मुनि-स्वान्तांबुजाताश्रयं
स्वच्छं सद्द्विज-सेवितं कलुष-हृत् सद्वासनाविष्कृतम् ।
शंभु-ध्यान-सरोवरं व्रज मनो-हंसावतंस स्थिरं
किं क्षुद्राश्रय-पल्वल-भ्रमण-संजात-श्रमं प्राप्स्यसि ।।48।।

आनन्दामृत-पूरिता हर-पदांभोजालवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्ति लतिका शाखोपशाखान्विता ।
उच्छैर्मानस कायमान-पटलीमाक्रंय निष्कल्मषा
नित्याभीष्ट फल-प्रदा भवतु मे सत्कर्म संवर्धिता ।।49।।

सन्ध्यारंभ-विजृंभितं श्रुति-शिर स्थानान्तराधिष्ठितं
सप्रेम भ्रमराभिराममसकृत् सद्वासना शोभितम् ।
भोगीन्द्राभरणं समस्त सुमनःपूज्यं गुणाविष्कृतं
सेवे श्रीगिरि मल्लिकार्जुन महा-लिंगं शिवालिंगितम् ।।50।।

भृंगीच्छा-नटनोत्कटः करि-मद-ग्राही स्फुरन्-
माधवाह्लादो नाद-युतो महासित-वपुः पंचेषुणा चादृतः ।
सत्पक्षस्सुमनो-वनेषु स पुनः साक्षान्मदीये मनो
राजीवे भ्रमराधिपो विहरतां श्रीशैल-वासी विभुः ।।51।।

कारुण्यामृत-वर्षिणं घन-विपद्-ग्रीष्मच्छिदा-कर्मठं
विद्या-सस्य-फलोदयाय सुमनस्संसेव्यं इच्छाकृतिम् ।
नृत्यद्भक्त-मयूरं अद्रि-निलयं चंचज्जटा मण्डलं
शंभो वांछति नील-कन्धर सदा त्वां मे मनश्चातकः ।।52।।

आकाशेन शिखी समस्त फणिनां नेत्रा कलापी
नताऽनुग्राहि प्रणवोपदेश निनदैः केकीति यो गीयते
श्यामां शैल समुद्भवां घन-रुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहार-रसिकं तं नील-कण्ठं भजे ।।53।।

सन्ध्या घर्म-दिनात्ययो हरि-कराघात-प्रभूतानक-
ध्वानो वारिद गर्जितं दिविषदां दृष्टिच्छटा चंचला ।
भक्तानां परितोष बाष्प विततिर्वृष्टिर्मयूरी शिवा
यस्मिन्नुज्ज्वल ताण्डवं विजयते तं नील-कण्ठं भजे ।।54।।

आद्यायामित तेजसे श्रुति पदैर्वेद्याय साध्याय ते
विद्यानन्द-मयात्मने त्रि-जगतस्संरक्षणोद्योगिने ।
ध्येयायाखिल योगिभिस्सुर-गणैर्गेयाय मायाविने
संयक् ताण्डव संभ्रमाय जटिने सेयं नतिश्शंभवे ।।55।।

नित्याय त्रिगुणात्मने पुर-जिते कात्यायनी श्रेयसे
सत्यायादि कुटुम्बिने मुनि-मनः प्रत्यक्ष चिन्मूर्तये ।
माया सृष्ट जगत्त्रयाय सकलाम्नायान्त संचारिणे
सायं ताण्डव संभ्रमाय जटिने सेयं नतिश्शंभवे ।।56।।

नित्यं स्वोदर पोषणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतस्सेवां न जाने विभो ।
मज्जन्मान्तर पुण्य-पाक बलतस्त्वं शर्व सर्वान्तरः-
तिष्ठस्येव हि तेन वा पशु-पते ते रक्षणीयोऽस्म्यहम् ।।57।।

एको वारिज बान्धवः क्षिति-नभो व्याप्तं तमो-मण्डलं
भित्वा लोचन-गोचरोपि भवति त्वं कोटि-सूर्य प्रभः ।
वेद्यः किं न भवस्यहो घन-तरं कीदृङ्-भवेन्-मत्तमस्-
तत्सर्वं व्यपनीय मे पशु-पते साक्षात् प्रसन्नो भव ।।58।।

हंसः पद्म-वनं समिच्छति यथा नीलांबुदं चातकः
कोकः कोक-नद प्रियं प्रति-दिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्छति मामकं पशु-पते चिन्मार्ग मृग्यं विभो
गौरी नाथ भवत्पदाब्ज-युगलं कैवल्य सौख्य-प्रदम् ।।59।।

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितः
भीतः स्वस्थ गृहं गृहस्थं अतिथिर्दीनः प्रभं धार्मिकम् ।
दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
चेतस्सर्व भयापहं व्रज सुखं शंभोः पदांभोरुहम् ।।60।।

अंकोलं निज बीज सन्ततिरयस्कान्तोपलं सूचिका
साध्वी नैज विभुं लता क्षिति-रुहं सिन्धुस्सरिद् वल्लभम् ।
प्राप्नोतीह यथा तथा पशु-पतेः पादारविन्द-द्वयं
चेतो-वृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ।।61।।

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचा शंख मुखे स्थितैश्च जठरा-पूर्तिं चरित्रामृतैः ।
रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना-
पर्यंके विनिवेश्य भक्ति जननी भक्तार्भकं रक्षति ।।62।।

मार्गावर्तित पादुका पशु-पतेरङ्गस्य कूर्चायते
गण्डूषांबु निषेचनं पुर-रिपोर्दिव्याभिषेकायते
किंचिद्भक्षित मांस-शेष-कबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वन-चरो भक्तावतंसायते ।।63।।

वक्षस्ताडनमन्तकस्य कठिनापस्मार संमर्दनं
भूभृत् पर्यटनं नमत्सुर-शिरः कोटीर संघर्षणम् ।
कर्मेदं मृदुलस्य तावक-पद द्वन्द्वस्य गौरी-पते
मच्चेतो मणि-पादुका विहरणं शंभो सदांगी-कुरु ।।64।।

वक्षस्ताडन शंकया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वल रत्न-दीप-कलिका नीराजनं कुर्वते ।
दृष्ट्वा मुक्ति-वधूस्तनोति निभृताश्लेषं भवानी-पते
यच्चेतस्तव पाद-पद्म-भजनं तस्येह किं दुर्लभम् ।।65।।

क्रीडार्थं सृजसि प्रपंचमखिलं क्रीडा-मृगास्ते जनाः
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।
शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामक रक्षणं पशु-पते कर्तव्यमेव त्वया ।।66।।

बहु-विध परितोष बाष्प-पूर
स्फुट पुलकांकित चारु-भोग भूमिम् ।
चिर-पद फल-कांक्षि सेव्यमानां
परम सदाशिव भावनां प्रपद्ये ।।67।।

अमित मुदमृतं मुहुर्दुहन्तीं
विमल भवत्पद-गोष्ठमावसन्तीम् ।
सदय पशु-पते सुपुण्य पाकां
मम परिपालय भक्ति धेनुमेकाम् ।।68।।

जडता पशुता कलंकिता
कुटिल चरत्वं च नास्ति मयि देव ।
अस्ति यदि राज-मौले
भवदाभरणस्य नास्मि किं पात्रम् ।।69।।

अरहसि रहसि स्वतन्त्र बुद्ध्या
वरि-वसितुं सुलभः प्रसन्न मूर्तिः ।
अगणित फल-दायकः प्रभुर्मे
जगदधिको हृदि राज शेखरोस्ति ।।70।।

आरूढ भक्ति-गुण कुंचित भाव चाप
युक्तैश्शिव स्मरण बाण-गणैरमोघैः ।
निर्जित्य किल्बिष-रिपून् विजयी
सुधीन्द्रस्सानन्दमावहति सुस्थिर राज-लक्ष्मीम् ।।71।।

ध्यानांजनेन समवेक्ष्य तमःप्रदेशं
भित्वा महा-बलिभिरीश्वर-नाम मन्त्रैः ।
दिव्याश्रितं भुजग-भूषणमुद्वहन्ति
ये पाद पद्ममिह ते शिव ते कृतार्थाः ।।72।।

भू-दारतामुदवहद् यदपेक्षया श्री-
भू-दार एव किमतस्सुमते लभस्व ।
केदारमाकलित मुक्ति महौषधीनां
पादारविन्द भजनं परमेश्वरस्य ।।73।।

आशा-पाश-क्लेश-दुर्वासनादि-
भेदोद्युक्तैः दिव्य-गन्धैरमन्दैः ।
आशा-शाटीकस्य पादारविन्दं
चेतःपेटीं वासितां मे तनोतु ।।74।।

कल्याणिनं सरस-चित्र-गतिं सवेगं
सर्वेंगितज्ञमनघं ध्रुव लक्षणाढ्यम् ।
चेतस्तुरंगम् अधिरुह्य चर स्मरारे
नेतस्समस्त जगतां वृषभाधिरूढ ।।75।।

भक्तिर्महेश पद-पुष्करमावसन्ती
कादंबिनीव कुरुते परितोष-वर्षम् ।
संपूरितो भवति यस्य मनस्तटाकः-
तज्जन्म-सस्यमखिलं सफलं च नान्यत् ।।76।।

बुद्धिःस्थिरा भवितुमीश्वर पाद-पद्म
सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
सद्भावना स्मरण-दर्शन-कीर्तनादि
संमोहितेव शिव-मन्त्र जपेन विन्ते ।।77।।

सदुपचार विधिष्वनुबोधितां
सविनयां सुहृदं सदुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
वर-गुणेन नवोढ वधूमिव ।।78।।

नित्यं योगि मनस्सरोज-दल संचार क्षमस्त्वत्
क्रमश्शंभो तेन कथं कठोर यमराड् वक्षःकवाट-क्षतिः ।
अत्यन्तं मृदुलं त्वदंघ्रि युगलं हा मे मनश्चिन्तयति-
एतल्लोचन गोचरं कुरु विभो हस्तेन संवाहये ।।79।।

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति
मद्रक्षायै गिरि सीम्नि कोमल-पदन्यासः पुराभ्यासितः ।
नोचेद् दिव्य गृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायस्सत्सु शिला-तलेषु नटनं शंभो किमर्थं तव ।।80।।

कंचित्कालमुमा-महेश भवतः पादारविन्दार्चनैः
कंचिद्ध्यान समाधिभिश्च नतिभिः कञ्चित् कथाकर्णनैः ।
कंचित् कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं
यःप्राप्नोति मुदा त्वदर्पित मना जीवन् स मुक्तःखलु ।।81।।

बाणत्वं वृषभत्वं अर्ध-वपुषा भार्यात्वं आर्या-पते
घोणित्वं सखिता मृदंग वहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतवान् त्वद्देह भागो हरिः
पूज्यात्पूज्य-तरस्स एव हि न चेत् को वा तदन्योऽधिकः ।।82।।

जनन-मृति-युतानां सेवया देवतानां
न भवति सुख लेशस्संशयो नास्ति तत्र ।
अजनिममृत रूपं सांबमीशं भजन्ते
य इह परम सौख्यं ते हि धन्या लभन्ते ।।83।।

शिव तव परिचर्या सन्निधानाय गौर्या
भव मम गुण-धुर्यां बुद्धि-कन्यां प्रदास्ये ।
सकल भुवन बन्धो सच्चिदानन्द सिन्धो
सदय हृदय-गेहे सर्वदा संवस त्वम् ।।84।।

जलधि मथन दक्षो नैव पाताल भेदी
न च वन मृगयायां नैव लुब्धः प्रवीणः ।
अशन कुसुम भूषा वस्त्र मुख्यां सपर्यां
कथय कथमहं ते कल्पयानीन्दु-मौले ।।85।।

पूजा-द्रव्य समृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा कीटित्वमपि न प्राप्तं मया दुर्लभम् ।
जाने मस्तकमङ्घ्रि-पल्लवमुमा जाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ।।86।।

अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः ।
मम दास्यसि किं किमस्ति शंभो
तव पादांबुज भक्तिमेव देहि ।।87।।

यदा कृतांभो-निधि सेतु-बन्धनः
करस्थ लाधः कृत पर्वताधिपः ।
भवानि ते लंघित पद्म-सम्भवः
तदा शिवार्चास्तव भावन-क्षमः ।।88।।

नतिभिर्नुतिभिस्त्वमीश पूजा
विधिभिर्ध्यान-समाधिभिर्न तुष्टः ।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीति-करं तथा करोमि ।।89।।

वचसा चरितं वदामि
शंभोरहं उद्योग विधासु तेऽप्रसक्तः ।
मनसाकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि ।।90।।

आद्याऽविद्या हृद्गता निर्गतासीत्-
विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
सेवे नित्यं श्री-करं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राज-मौले ।।91।।

दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्य दुःख दुरहंकृति दुर्वचांसि ।
सारं त्वदीय चरितं नितरां पिबन्तं
गौरीश मामिह समुद्धर सत्कटाक्षैः ।।92।।

सोम कला-धर-मौलौ
कोमल घन-कन्धरे महा-महसि ।
स्वामिनि गिरिजा नाथे
मामक हृदयं निरन्तरं रमताम् ।।93।।
सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः ।
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति ।।94।।

अति मृदुलौ मम
चरणावति कठिनं ते मनो भवानीश ।
इति विचिकित्सां संत्यज
शिव कथमासीद्गिरौ तथा प्रवेशः ।।95।।

धैयांकुशेन निभृतं
रभसादाकृष्य भक्ति-शृंखलया ।
पुर-हर चरणालाने
हृदय मदेभं बधान चिद्यन्त्रैः ।।96।।

प्रचरत्यभितः प्रगल्भ-वृत्त्या
मदवानेष मनः-करी गरीयान् ।
परिगृह्य नयेन भक्ति-रज्ज्वा
परम स्थाणु-पदं दृढं नयामुम् ।।97।।

सर्वालंकार-युक्तां सरल-पद-युतां साधु-वृत्तां सुवर्णां
सद्भिस्संस्तूयमानां सरस गुण-युतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषा-विशेषाम् उपगत-विनयां द्योतमानार्थ-रेखां
कल्याणीं देव गौरी-प्रिय मम कविता-कन्यकां त्वं गृहाण ।।98।।

इदं ते युक्तं वा परम-शिव कारुण्य जलधे
गतौ तिर्यग्रूपं तव पद-शिरो-दर्शन-धिया ।
हरि-ब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रम-युतौ
कथं शंभो स्वामिन् कथय मम वेद्योसि पुरतः ।।99।।

स्तोत्रेणालं अहं प्रवच्मि न मृषा देवा विरिंचादयः
स्तुत्यानां गणना-प्रसंग-समये त्वामग्रगण्यं विदुः ।
माहात्म्याग्र-विचारण-प्रकरणे धाना-तुषस्तोमवत्
धूतास्त्वां विदुरुत्तमोत्तम फलं शंभो भवत्सेवकाः ।।100।।

इति श्रीमत्परम-हंस परिव्राजकाचार्य-
श्रीमत् शंकराचार्य विरचिता शिवानन्द लहरी समाप्ता ।।

Categories: સંસ્કૃત, સ્તોત્ર | Tags: , | 1 Comment

Post navigation

One thought on “शिवानन्द लहरी – श्रीमत् शंकराचार्य

  1. આમોદના પ્રકાંડ પંડિત દીનાનાથ ભટ્ટને ભાગવતના ૧૮૦૦૦ શ્લોક ઉપરાંત બીજા ઘણા બધા શ્લોક મોઢે હતા. એક વખત તેમની મુલાકાત સદગુરૂ નિશ્કુળાનંદ સ્વામી જોડે થઇ. સ્વામીએ મહારાજના પ્રગટપણાની વાત કહી. ત્યારે દીનાનાથ ભટ્ટે વિચાર્યું “સ્વામી વિધ્વાન છે પણ( સ્વામિનારાયણની વાતમાં) ફસાયા છે એને છોડાવું.” ૧૮ દિવસના શાસ્ત્રાસ્ત્ર પછી ભટ્ટજીએ સ્વામીની વાત સ્વીકારી.
    પછી ભટ્ટજી ગઢડા શ્રીજી મહારાજ પાસે આવ્યા ત્યારે મહારાજે પૂછ્યું – “ભાગવતના ૧૮૦૦૦ માંથી તમારા શ્લોક કેટલા ? ભટ્ટજી કહે “બધા મારા જ” ત્યારે શ્ર્રી હરિએ ટકોર કરી – “આ બધા શ્લોકોમાંથી તમારા જીવના કલ્યાણમાં ઉપયોગી ક્યા શ્લોકો ? ” ત્યારે ભટ્ટજીથી તેનો ઉત્તર થઇ શક્યો નહિ. એટલે શ્રીજીએ સમજાવ્યું બે જ શ્લોક – (૧). પ્રસંગ મજરં… (ર). યસ્યાત્મબુધ્ધિઃ કુણપેત્રિધાતુકે….” ત્યારબાદ દીનાનાથ ભટ્ટ શ્રીજીના આશ્રિત થયા.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

Blog at WordPress.com.

%d bloggers like this: