Daily Archives: 25/08/2009

लोकहितं मम करणीयम्

मनसा सततं स्मरणीयम्
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् (२) ॥ धृव ॥

न भोगवने रमणीयम्
न च सुखशयने शयनीयम्
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

न जातु दुःखं गणनीयम्
न च निजसौख्यं मननीयम्
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

दुःखसागरे तरणीयम्
कष्टपर्वते चरणीयम्
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे
तत्र मया संञ्चरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

Categories: ભજન / પદ / ગીત / કાવ્ય / ગઝલ, સંસ્કૃત | 1 Comment

Create a free website or blog at WordPress.com.